Posts

Showing posts from June, 2020

॥ श्री शिवमहिम्नस्तोत्रम्‌॥

Image
॥ अथ श्री शिवमहिम्नस्तोत्रम्‌॥   महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः । अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्‌ ममाप्येष स्तोत्रे हर निरपवादः परिकरः॥ १॥ अतीतः पंथानं तव च महिमा वाङ्मनसयोः अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि। स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः॥ २॥ तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्‌ त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु। अभव्यानामस्मिन्‌ वरद रमणीयामरमणीं विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः॥ ४॥ हः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च। अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः कुतर्कोऽयं कांश्चित्‌ मुखरयति मोहाय जगतः॥ ५॥ अजन्मानो लोकाः किमवयववन्तोऽपि जगतां अधिष्ठातारं किं भवविधिरनादृत्य भवति। अनीशो वा कुर्याद्‌ भुवनजनने कः परिकरो यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे॥ ६॥ त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च। रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव॥ ७॥ ...